|| श्री पुरूषोत्तम कवचम् ||
हृदयं गोपिकानाथो भालं मे जगदीश्वरः।
श्रीकृष्णो मे शिखां पातु कवचं पातु गोपतिः।।
नेत्रे पातु दधद्वेत्रमस्त्रं वेणुधरो हरिः।
मूर्द्धादिकण्ठपर्यन्तं श्रीकृष्णः सर्वदाऽवतु।।
कण्ठादिमध्यपर्यन्तं श्रीगोविन्दोऽपि रक्षतु।
श्रीगोपीजनकान्तस्तु पायान्मध्यादिपादतः।।
श्रीमन्मुकुन्दचरणौ शरणं मेऽस्तु सर्वतः।
श्रीकृष्णः शरणं मेऽस्तु बाल्ये बालस्वरूपधृक्।।
गोविन्दश्शरणं मेऽस्तु तारुण्ये तरुणीप्रियः।
केशवः शरणं मेऽस्तु वार्द्धक्ये वृद्धवन्दितः।।
अग्रतो मे जगन्नाथः पृष्ठतो बदरीपतिः।
पार्श्वतो द्वारकानाथो रङ्गनाथस्तथा हरिः।।
इति श्री पुरुषोत्तम कवचं सम्पूर्णं ।।

